
वक्रतुंड महाकाय कोटिसूर्यसमप्रभ .
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ..
या कुन्देन्दु तुषार् हार धवला या शुभ्रवस्त्रावृता .
या वीणावरदंड मंडितकरा या श्वेतपद्मासना .
या ब्रह्माच्युतशंकरप्रभ्रुतिभिर्देवै सदा वंदिता .
सा मां पातु सरस्वती भगवती निःशेष जाड्या पहा ..
गुरुब्रर्ह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः .
गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवेनमः ..
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती .
करमूले तु गोविन्दः प्रभाते करदर्शनं ..
समुद्रवसने देवि पर्वतस्तनमण्डले .
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ..
शांताकारं भुजगशयनं पद्मनाभं सुरेशं .
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं .
लक्ष्मीकांतं कमलनयनं योगिभिध्यार्नगम्यं .
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..
सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः .
सर्वे भद्राणि पश्यन्तु मा कश्चित्दुःखभाग्भवेत् ..
या देवी सर्वभूतेषु मातृरुपेण संस्थितः .
या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः .
या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः .
नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ..
ॐ णमो अरिहंताणं
ॐ णमो सिद्धाणं
ॐ णमो आयरियाणं
ॐ णमो उवज्झायाणं
ॐ णमो लोए सव्वसाहुणं
एसो पंच णमोकारो
सव्व पावपणासणो
मंगलाणं च सव्वेसिम्
पढमं हवैइ मंगलं
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके .
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ..
वसुदेव सुतं देवं कंस चाणूरमर्दनं .
देवकी परमानंदं कृष्णं वंदे जगद्गुरुं ..
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् .
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ..
राम रामेति रामेति रमे रामे मनोरमे .
सहस्रनाम तत्तुल्यं रामनाम वरानने ..
शुभं करोति कल्याणं आरोग्यं धनसंपदा .
शत्रुबुध्दिविनाशाय दीपज्योति नमोऽस्तुते ..
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन .
मा कर्मफलहेतुर्भिः मा ते सङ्गोस्त्व कर्मणि ..
करचरण कृतं वाक्कायजं कर्मजं वा .
श्रवणनयनजं वा मानसं वापराधं .
विहितमविहितं वा सर्वमेतत्क्षमस्व .
जय जय करुणाब्धे श्रीमहादेव शम्भो ..
ॐ सह नाववतु . सह नौभुनक्तु .
सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विषावहै ..
त्वमेव माता च पिता त्वमेव .
त्वमेव बन्धुश्च सखा त्वमेव .
त्वमेव विद्या द्रविणं त्वमेव .
त्वमेव सर्वं मम देवदेव ..
ॐ असतो मा सद्गमय . तमसो मा ज्योतिर्गमय .
मृत्योमार् अमृतं गमय ..
ॐ शांतिः शांतिः शांतिः ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शांतिः शांतिः शांतिः ..



if you made your self Successfull first you should love your work. and your love is only your work and goal.
My name is Jitendra Ravia from India. I invite all brahmins to help me to improve this website. Feel free to check my native favorite website. And If you have any suggestions or questions, feel free to mail me at
Enjoy to display here all of our brahmin members activities.